|
|
 |
 |
|
|
२ सभापर्व.jpg)
॥ श्रीः ॥
2.47. अध्यायः 047
Mahabharata - Sabha Parva - Chapter Topics
बलिनिपीडितैरिन्द्रादिभिः प्रार्धितेन हरिणा अदित्यां वामनत्वेनावतीर्य बलि म्प्रति याचनम्॥ 1॥ त्रिविक्रमरूपिणो हरेः पादाङ्गुष्ठनखनिर्भिण्णोर्ध्वाण्डाद्गङ्गायाः प्रादु र्भावो बलिनिग्रहश्च ॥ 2॥
Mahabharata - Sabha Parva - Chapter Text
भीष्म उवाच॥
पुरा त्रेतायुगे राजन्बलिर्वैरोजनोऽभवत्।
दैत्यानां पार्थिवो वीरो बलेनाप्रतिमो बली॥ 2-47-1(13213)
तदा बलिर्महाराज दैत्यसङ्घैः समावृतः।
विजेतुं तरसा शक्रमिन्द्रस्थानमवाप सः॥ 2-47-2(13214)
तेन वित्रासिता देवा बलिनाऽऽखण्डलादयः।
ब्रह्माणं तु पुरस्कृत्य गत्वा क्षीरोदधिं तदा॥ 2-47-3(13215)
तुष्टुवुः सहिताः सर्वे देवं नारायणं प्रभुम्।
स तेषां दर्शनं चक्रे विबुधानां हरिस्तदा॥ 2-47-4(13216)
प्रसादजं तस्य विभोरदित्यां जन्म उच्यते।
अदितेरपि पुत्रत्वमेत्य यादवनन्दनः॥ 2-47-5(13217)
एष विष्णुरिति ख्यात इन्द्रस्यावरजोऽभवत्।
तस्मिन्नेव च काले तु दैत्येन्द्रो बलवीर्यवान्॥ 2-47-6(13218)
अश्वमेधं क्रतुश्रेष्ठमाहर्तुमुपचक्रमे।
वर्तमाने तदा यज्ञे दैत्येन्द्रस्य युधिष्ठिर॥ 2-47-7(13219)
स विष्णुर्मानवो भूत्वा प्रच्छन्नो ब्रह्मसंवृतः।
मुण्डो यत्रोपवीती च कृष्णाजिनधरः शिखी॥ 2-47-8(13220)
पालाशदण्डं सङ्गृह्य वामनोऽद्भुतदर्शनः।
प्रविश्य स बलेर्यज्ञे वर्तमानो च दक्षिणाम्॥ 2-47-9(13221)
देहीत्युवाच दैत्येन्द्रं विक्रमांस्त्रीनिहैव ह।
दीयतां त्रिपदीमात्रमित्ययाचन्महासुरम्॥ 2-47-10(13222)
स तथेति प्रतिश्रुत्य प्रददौ विष्णवे तदा।
तेन लब्ध्वा हिरर्भूमिं जृम्भयामास वै भृशम्॥ 2-47-11(13223)
स शिशुः सदिवं खं च पृथिवीं वच विशाम्पते।
त्रिभिर्विक्रमणैश्चैव सर्वमाक्रमताभिभूः॥ 2-47-12(13224)
बलेर्बलवतो यज्ञे बलिना विष्णुना पुरा।
विक्रमैस्त्रिभिरक्षोभ्याः क्षोभितास्ते महासुराः॥ 2-47-13(13225)
विप्रचित्तिमुखाः क्रुद्धाः सर्वसङ्घा महासुराः।
नानावक्रा महाकाया नानावेषधरा नृप॥ 2-47-14(13226)
नानाप्रहरणा रौद्रा नानामाल्यानुलेपनाः।
स्वान्यायुधानि सङ्गृह्य प्रदीप्ता इव तेजसा॥ 2-47-15(13227)
क्रममाणं हरि तत्र उपावर्तन्त भारत।
प्रमथ्य सर्वान्दैतेयान्पादहस्ततलैस्तु तान्॥ 2-47-16(13228)
रूपं कृत्वा महाभीमं जहाराशु स मेदिनीम्।
सम्प्राप्य दिवमाकाशमादित्यसदने स्थितः॥ 2-47-17(13229)
अत्यरोचत भूतात्मा आदित्यस्यैव तेजसा।
प्रकाशयन्दिशः सर्वाः प्रदिशश्च महायशाः॥ 2-47-18(13230)
शुशुभे स महाबाहुः सर्वलोकान्प्रकाशयन्।
तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे॥ 2-47-19(13231)
नभस्तु क्रममाणस्य नाभ्यां किल तदा स्थितौ।
परमाक्रममाणस्य नानुभ्यां तौ व्यवस्थितौ॥ 2-47-20(13232)
विष्णोरमितवीर्यस्य वदन्त्येवं द्विजातयः।
अथास्य पादाक्रमणात्पफालाण्डो युधिष्ठिरः॥ 2-47-21(13233)
तच्छिद्रात्स्यन्दिनी तस्य पादभ्रष्टा तु निम्नगा।
ससार सागरं सा तु पावनी सागरंगमा॥ 2-47-22(13234)
जहार मेदिनीं सर्वां हत्वा दानवपुङ्गवान्।
आसुरी श्रियमाहृत्य त्रील्लोकान्स जनार्दन॥ 2-47-23(13235)
सपुत्रदारानसुरान्पाताले संन्यवेशयत्।
नमुचिः शम्बरश्चैव प्रह्लादश्च महामनाः॥ 2-47-24(13236)
महाभूतानि भूतात्मा सविशेषानि वै हरिः।
कालं च सकलं राजन्गात्रभूतान्यदर्शयत्॥ 2-47-25(13237)
तस्य गात्रे जगत्सर्वमानीतमधिपश्यति।
न किञ्चिदस्ति लोकेषु यदनाप्तं महात्मना॥ 2-47-26(13238)
तद्धि रूपमुपेन्द्रस्य देवदानवमानवाः।
दृष्ट्वा संमुमुहुः सर्वे विष्णुतेजोऽभिपीडिताः॥ 2-47-27(13239)
बलिर्बद्धोऽभिमानी च यज्ञवाटे महात्मना।
विरोचनकुलं सर्वं पाताले विनिवेशितम्॥ 2-47-28(13240)
एवंविधानि कर्माणि कृत्वा गरुडावाहनः।
न विस्मयमुपागच्छत्पारमेष्ठ्येन तेजसा॥ 2-47-29(13241)
स सर्वमसुरैश्वर्यं सम्प्रदाय शचीपतेः।
त्रैलोक्यं च ददौ शक्रे विष्णुर्दानवसूदनः॥ 2-47-30(13242)
एष ते वामनो नाम प्रादुर्भावो महात्मनः।
वेदविद्भिर्द्विजैरेतच्छ्रूयते वैष्णवं यशः।
मानुषेषु ततो विष्णोः प्रादुर्भावांस्तथा शृणु॥ ॥ 2-47-31(13243)
इति श्रीमन्महाभारते सभापर्वणि अर्घाहरणपर्वणि सप्तचत्वारिंशोऽध्यायः॥ 47 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|